वांछित मन्त्र चुनें

आ मि॒त्रावरु॑णा॒ भगं॒ मध्व॑: पवन्त ऊ॒र्मय॑: । वि॒दा॒ना अ॑स्य॒ शक्म॑भिः ॥

अंग्रेज़ी लिप्यंतरण

ā mitrāvaruṇā bhagam madhvaḥ pavanta ūrmayaḥ | vidānā asya śakmabhiḥ ||

पद पाठ

आ । मि॒त्रावरु॑णा । भग॑म् । मध्वः॑ । प॒व॒न्ते॒ । ऊ॒र्मयः॑ । वि॒दा॒नाः । अ॒स्य॒ । शक्म॑ऽभिः ॥ ९.७.८

ऋग्वेद » मण्डल:9» सूक्त:7» मन्त्र:8 | अष्टक:6» अध्याय:7» वर्ग:29» मन्त्र:3 | मण्डल:9» अनुवाक:1» मन्त्र:8


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - जिन विद्वानों की (मध्वः ऊर्मयः) मीठी वृत्तियें (भगम्) ईश्वर के ऐश्वर्य की ओर लगती हैं तथा (मित्रावरुणा) ईश्वर के प्रेम और आकर्षणरूप शक्ति की ओर लगती हैं, वे (विदाना) विज्ञानी (अस्य शक्मभिः) इस परमात्मा के आनन्द से (आपवन्ते) सम्पूर्ण संसार को पवित्र करते हैं ॥८॥
भावार्थभाषाः - ईश्वरपरायण लोग केवल अपने आपका ही उद्धार नहीं करते, किन्तु अपने भावों से सम्पूर्ण संसार का उद्धार करते हैं ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - येषां विदुषाम् (मध्वः ऊर्मयः) मधुरवृत्तयः (भगम्) ईश्वरैश्वर्यमभि प्रवर्तन्ते तथा (मित्रावरुणा) ईश्वरस्य प्रेमाकर्षणशक्तिमभि च प्रवर्त्तन्ते ते (विदाना) विद्वांसः (अस्य शक्मभिः) परमात्मानन्दैः (आपवन्ते) कृत्स्नं जगत्पुनन्ति ॥८॥